(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharata - कर्णपर्व


॥ श्रीः ॥
8.69. अध्यायः 069
Mahabharata - Karna Parva - Chapter Topics
युधिष्ठिरेण कर्णशरविक्षतस्यात्मनो दिदृक्षया स्वशिबिरमुपागतौ कृष्णार्जुनौ दृष्ट्वा पार्थेन राधेयस्य वधभ्रमेण पार्थस्य प्रशंसनम्॥ 1 ॥


Mahabharata - Karna Parva - Chapter Text

सञ्जय उवाच। 8-69-0x(5001)(58355)
[अथोपयातौ पृथुलोहिताक्षौ
शराचिताङ्गौ रुधिरप्रदिग्धौ।
समीक्ष्य सेनाग्रनरप्रवीरौ
युधिष्ठिरो वाक्यमिदं बभाषे॥] 8-69-1(58356)
ततो युधिष्ठिरो दृष्ट्वा सहितौ केशवार्जुनौ।
हतमाधिरथिं मेने सङ्ख्ये गाण्डीवधन्वना॥ 8-69-2(58357)
तावभ्यनन्दत्कौन्तेयः साम्ना परमवल्गुना।
स्मितपूर्वममित्रघ्न पूजयन्भरतर्पभ॥ 8-69-3(58358)
युधिष्ठिर उवाच। 8-69-4x(5002)
स्वागतं देवकीपुत्र स्वागतं ते धनञ्जय।
प्रियं मे दर्शनं वाढं युवयोर्नरसिंहयोः॥ 8-69-4(58359)
अरिष्टयोरक्षतयोः कर्णं हत्वा महारथम्।
आशीविपसमं युद्धे सर्वशस्त्रविशारदम्॥ 8-69-5(58360)
अग्रगं धार्तराष्ट्राणां सर्वेषां शर्म वर्म च।
रक्षितं वृषसेनेन सुपेणेन च धन्विना॥ 8-69-6(58361)
अनुज्ञातं महावीर्यं रामेणास्त्रे सुदुर्जयम्।
अग्र्यं सर्वस्य लोकस्य रथिनं लोकविश्रुतम्॥ 8-69-7(58362)
त्रातारं धार्तराष्ट्राणां गन्तारं वाहिनीमुखे।
हन्तारं परसैन्यानाममित्रगणमर्दनम्॥ 8-69-8(58363)
दुर्योधनहिते युक्तमस्मद्दुःखाय चोद्यतम्।
अप्रधृष्यं महायुद्धे देवैरपि सवासवैः॥ 8-69-9(58364)
अनलानिलयोस्तुल्यं तेजसा च बलेन च।
पातालमिव गम्भीरं सुहृदां नन्दिवर्धनम्॥ 8-69-10(58365)
अन्तकं मम मित्राणां हत्वा कर्णं महामृधे।
दिष्ट्या युवामनुप्राप्तौ हत्वाऽसुरमिवामरौ॥ 8-69-11(58366)
तेन युद्धमभीतेन मयाऽद्याप्यच्युतार्जुनौ।
कृतं घोरं महाबाहू धृष्टद्युम्नस्य पश्यतः।
अन्तकेनेव क्रुद्धेन प्रजाः सर्वा जिघांसता॥ 8-69-12(58367)
तेन केतुश्च मे च्छिन्नो हतौ च पार्ष्णिसारथी।
हतवाहः कृतश्चास्मि युयुधानस्य पश्यतः॥ 8-69-13(58368)
धृष्टद्युम्नस्य यमयोर्वीरस्य च शिखण्डिनः।
पश्यतां द्रौपदेयानां शतद्रोश्च महात्मनः॥ 8-69-14(58369)
एताञ्जित्वा महावीर्यः कर्णः शत्रुगणान्बहून्।
जितवान्मां महाबाहो यतमानो महारणे॥ 8-69-15(58370)
अनुसृत्य च मां युद्धे परुषाण्युक्तवान्बहु।
तत्र तत्र युधां श्रेष्ठ परिभूय न संशयः॥ 8-69-16(58371)
भीमसेनप्रभावात्तु यज्जीवामि धनञ्जय।
बहुनात्र किमुक्तेन हते सोढुं समुत्सहे॥ 8-69-17(58372)
त्रयोदशाहं वर्षाणि यस्माद्भीतो धनञ्जय।
न स्म निद्रां लभे रात्रौ न चाहनि सुखं क्वचित्॥ 8-69-18(58373)
तस्य द्वेषेण संयुक्तः परिदह्ये धनञ्जय।
आत्मनो मरणं जानन्वाध्रीणस इव द्विजः॥ 8-69-19(58374)
तस्यायमगमत्कालश्चिन्तयानस्य मे चिरम्।
कथं कर्णो मया शक्यो युद्धे क्षपयितुं भवेत्॥ 8-69-20(58375)
जाग्रत्स्वपंश्च कौन्तेय कर्णमेव स्मराह्यहम्।
पश्यामि तत्रतत्रैव कर्णभूतमिदं जगत्॥ 8-69-21(58376)
यत्र यत्र हि गच्छामि कर्णाद्भीतो धनञ्जय।
तत्र तत्र हि पश्यामि कर्णमेवाग्रतः स्थितम्॥ 8-69-22(58377)
सोऽहं तेनैव वीरेण समरेष्वपलायिना।
सहयः सरथः पार्थ जित्वा जीवन्विसर्जितः॥ 8-69-23(58378)
को नु मे जीवितेनार्थो राज्येनार्थो भवेत्पुनः।
ममैवं विक्षतस्याद्य कर्णेनाहवशोभिना॥ 8-69-24(58379)
न प्राप्तपूर्वं यद्भीष्मात्कृपाद्द्रोणाच्च संयुगे।
तत्प्राप्तमद्य मे युद्धे सूतपुत्रान्महारथात्॥ 8-69-25(58380)
स त्वां पृच्छामि कौन्तेय यथा न कुशलस्तथा।
तन्ममाचक्ष्व कार्त्स्न्येन यथा कर्णो हतस्त्वया॥ 8-69-26(58381)
शक्रतुल्यबलो युद्धे यमतुल्यः पराक्रमे।
रामतुल्यस्तथास्त्रेषु स कथं ते निषूदितः॥ 8-69-27(58382)
महारथसमाख्यातः सर्वयुद्धविशारदः।
धनुर्धराणां प्रवरः सर्वेषां वै सदार्जुन॥ 8-69-28(58383)
पूजितो धृतराष्ट्रेण सपुत्रेण विशाम्पते।
त्वदर्थमेव राधेयः स कथं निहतस्त्वया॥ 8-69-29(58384)
धार्तराष्ट्रस्य योद्धारः सर्व एव सदार्जुन।
तव मृत्युं रणे कर्णं मन्यन्ते पुरुषर्षभ॥ 8-69-30(58385)
स त्वया पुरुषव्याघ्र कथं युद्धे निषूदितः।
तन्ममाचक्ष्व कौन्तेय यथा कर्णो हतस्त्वया॥ 8-69-31(58386)
सोत्सेधमस्य च शिरः पश्यतां सुहृदां हृतम्।
त्वया पुरुषशार्दूल सिंहेनेव यथा रुरोः॥ 8-69-32(58387)
सर्वा दिशः पर्यपतत्त्वदर्थं
त्वां सूतपुत्रः समरे परीप्सन्।
दित्सन्नृणां शकटं रत्नपूर्णं
कथं त्वयासौ निहतोऽद्य कर्णः॥ 8-69-33(58388)
त्वया रणे निहतः सूतपुत्रः
कच्चित्कृतं मे परमं त्वयाद्य
प्रियं रणे सूतपुत्रं निहत्य॥ 8-69-34(58389)
सर्वा दिशः पर्यपतत्त्वदर्थं
मुदान्वितो गर्वितः सूतपुत्रः।
स शूरमानी समरे समेत्य
कच्चित्त्वया निहतः सूतपुत्रः॥ 8-69-35(58390)
राज्यं परं हस्तिगवाश्वयुक्तं
रथं दित्सुर्यः परेभ्यस्त्वर्दर्थे।
त्वया रणे स्पर्धते यः स पापः
कच्चित्त्वया निहतः पापबुद्धिः॥ 8-69-36(58391)
योऽसौ नित्यं शौर्यमदेन मत्तो
विकत्थते संसदि कौरवाणाम्।
प्रीत्यर्थं वै तात सुयोधनस्य
कच्चित्स पापो निहतस्त्वयाद्य॥ 8-69-37(58392)
कच्चित्समागम्य धनुःप्रमुक्तै--
स्त्वत्प्रेषितैर्लोहमयैर्विहंगैः।
शेते भिन्नः पांसुषु सूतपुत्रः
कच्चिद्भग्रौ धार्तराष्ट्रस्य बाहू॥ 8-69-38(58393)
योऽसौ सदा श्लाघते राजमध्ये
दुर्योधनं हर्षयन्दर्पयुक्तः।
हन्ताऽस्मि सर्वानिति पाण्डुपुत्रा--
नहं हन्ता फल्गुनस्येति मोहात्॥ 8-69-39(58394)
कच्चिद्वचोऽस्य वितथं त्वया कृतं
यत्तत्प्रियामवदत्तात कर्णः।
सभामथ्ये रूक्षमनेकरूपं
धिक्पाण्डवानपतिस्त्वं हि कृष्णे॥ 8-69-40(58395)
कच्चिद्भुवं शत्रुरयं महात्मा
ह्यधारयद्द्वादश यः समास्तु।
कर्णो व्रतं घोरममित्रसाहो
दुर्योधनस्यार्थनिविष्टबुद्धिः॥ 8-69-41(58396)
पादौ न धावे यावदहं न हन्मि
धनञ्जयं समरेषूग्रवेगम्।
कच्चिद्रणे फल्गुन तं निहत्य
कच्चिद्व्रतं तस्य भग्नं त्वयाऽद्य॥ 8-69-42(58397)
योऽसौ कृष्णामब्रवीद्दुष्टबुद्धिः
कर्णः सभायां कुरुवीरमध्ये।
किं पाण्डवांस्त्वं न जहासि कृष्णे
सुदुर्बलान्पतितान्हीनसत्वान्॥ 8-69-43(58398)
योऽसौ कर्णः प्रत्यजानात्त्वदर्थे
नाहं हत्वा सह कृष्णेन पार्थम्।
इहोपयातेति स पापबुद्धिः
कच्चिच्छेते शरसम्भिन्नगात्रः॥ 8-69-44(58399)
कच्चित्सङ्ग्रामो विदितो वै तवायं
समागमे सृञ्जय कौरवाणाम्।
येनावस्थामीदृशीं प्रापितोऽहं
कच्चित्त्वया सोऽद्य हतो दुरात्मा॥ 8-69-45(58400)
कच्चित्त्वया तस्य सुमन्दबुद्धे--
र्गाण्डीवमुक्तैर्विशिखैर्ज्वलद्भिः।
सकुण्डलं भानुमदुत्तमाङ्गं
कायात्प्रकृत्तं युधि सव्यसाचिन्॥ 8-69-46(58401)
यत्तन्मया बाणसमर्पितेन
ध्यातोऽसि कर्णस्य वधाय वीर।
तन्मे त्वया कच्चिदमोघमद्य
ध्यानं कृतं कर्णनिपातनेन॥ 8-69-47(58402)
यद्दर्पपूर्णः स सुयोधनोऽस्मा--
न्दिधक्षते कर्णसमाश्रयेण।
कच्चित्त्वया सोऽद्य समाश्रयोऽस्य
भग्नः पराक्रम्य सुयोधनस्य॥ 8-69-48(58403)
यो नः पुरा षण्ढतिलानवोच--
त्सभामध्ये कौरवाणां समक्षम्।
स दुर्मतिः कच्चिदुपेत्य सङ्ख्ये
त्वया हतः सूतपुत्रोऽत्यमर्षी॥ 8-69-49(58404)
यः प्राहिणोत्सूतपुत्रो दुरात्मा
कृष्णां जितां सौबलेहानयेति।
स मन्दबुद्धिर्निहतः प्रसह्य
वैकर्तनस्त्वद्य कच्चिन्महात्मन्॥ 8-69-50(58405)
यः शस्त्रभृच्छ्रेष्ठतमं पृथिव्यां
पितामहं व्याक्षिपदल्पचेताः।
सङ्ख्यायमानोऽर्धरथः स कच्चि--
त्त्वयां हतोऽद्याधिरथिर्महात्मन्॥ 8-69-51(58406)
अमर्षजं निकृतिसमीरणेरितं
हृदि स्थितं ज्वलनमिमं सदा मम।
हतो मया सोऽद्य समेत्य कर्ण
इति ब्रुवन्प्रशमयसेऽद्य फल्गुन॥ ॥ 8-69-52(58407)

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे एकोनसप्ततितमोऽध्यायः॥ 69 ॥

Mahabharata - Karna Parva - Chapter Footnotes
8-69-5 अरिष्टयोः शुभयोः॥ 8-69-7 अनुज्ञातं अनुगृहीतम्॥ 8-69-10 अनलानिलयोरिति क्रमात्तेजोबलाभ्याम्॥ 8-69-13 अपसव्यः कृतश्चास्मि इति ख.घ.पाठः॥ 8-69-17 नाहं तं सोढुमुत्सहे इति क.ङ.पाठः॥ 8-69-19 कृष्णग्रीवो रक्तशिराः श्वेतपक्षो विहगमः। स वै वाध्रीणसः प्रोक्तो याज्ञिकैः पितृकर्मणीति प्राञ्चः। वाघ्रीणस इव द्विप इति झ.पाठः॥ 8-69-26 यथा नः कुशलं तथा इति क.ङ.पाठः॥ 8-69-38 विहङ्गैर्वाणैः॥ 8-69-39 श्वाघते आत्मानमिति शेषः॥ 8-69-47 बाणेभ्यः समर्पितेन कर्णबाणैरत्यन्तं प्रविद्धेनेत्यर्थः॥ 8-69-69 एकोनसप्ततितमोऽध्यायः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.